________________
७३५
तद्वेरस्थापनं मोक्षश्वर्यारोग्यसुखपदम् ॥ १७ ॥ तस्मात्तत्कल्पयेच्छिल्पी दोषहीनं गुणान्वितम् । करण्डमकुटोपेतं शीर्षकैरपि वेष्टकम् ॥ १८॥ किरीटैश्च जटाजालयथारूपं प्रकल्पयेत् ।
चात्युन्ननपीठ कल्पन महिनानि प्रकल्पयेन । एवं शान्तिरसभक्तिरसवर्धकानामन्येषां सत्वप्रधानानां पशुपतिगौरी कान्तनारायण माधवगोविन्दरगनाथप्रमुबानां देवोत्तमानां बेराणि दशतालमानकृतानि स्थापयेदित्यर्थः । एवं निर्मितमूलबेरतालसंख्याप्रमाणानुगुणमेव तद्देवी बेराणाञ्च तदपेक्षया किञ्चिन्यूनप्रमाणं युक्तम् ॥
किश्चात्रोक्ततालप्रमाण मंख्याक्रमस्तु मूलबेरेपू सबवेरेषु च योजनीय इति भावः । परन्तु तत्र शिलादिकल्पनीयमूलबेरतालप्रमाणानुगुणाङ्गुलपरिकल्पनन्त्वन्यदेव । ताम्रादिलोहकृतोत्सवबेरतालप्रमाणानुगुणांगुल मानयोजनन्त्वन्यदेवेति । अयन्तु विभागप्रमाणक्रमोऽवश्यं शिल्पिभिरादौ ज्ञेय इत्यर्थः ।।
___ यथाविभवं प्रामदेवालयाई , नगरदेवालयाई , प्रामादाहश्च बेरनिर्माणं कर्तुमुधुक्तश्शिल्पी केषाश्चिदेव बेराणां मौलिभागे मकुटयोजनमन्येषां बेराणां मौलितले शीर्षकयोजनं, वीरसत्वबेराणां मौलितले किरीटयोजनं अन्येषां मौलितले जटा