________________
७६४
तक्षणैर्वधनैर्योगैर्द्रव्ययोग्य स्वरूपकम् । अङ्गसौष्ठवसंयुक्तं बेरं सर्वशुभप्रदम् ॥ १४ ॥ कुर्याहादशतालेन वीरदेवप्रकल्पनम् । दशतालेन मानेन सौम्यदेवप्रकल्पनम् ॥ १५ ॥ नवाष्ट सप्तपट्तालैरन्यान्देवान्प्रकल्पयेत् । यथाविभवतस्सर्वदेवानां कल्पनं मतम् ।। १६ ।। पुरयोग्यं हर्ययोग्यं गृहयोग्यं प्रकल्पयेत् ।
स्तक्षयित्वा तेषामङ्गानां सौष्ठव ञ्च क्रमान संपाद्य, मुख मण्डलहस्ताद्यवयवेषु यथाक्रमं रेखादिकञ्च विन्यसेत् ॥
एवं मूल बेरनिर्माणकार्यायोयुक्तश्शिल्पी नितरां सावधानस्तत्तद्देवतामूर्त्यनुगुणं बेरप्रमाणमौन्नत्यादिकञ्च तत्रारोपयेत् । यथा ब्राह्मण गृहपूजा देवबेर पञ्चतालप्रमाणेन वा षट्तालप्रमाणेन वा कारयेत् । एवं क्षत्रिय प्रासाद पूजाहवेराणि सप्ततालप्रमाणयुतानि वाऽष्टतालप्रमाणयुतानि वा प्रकल्पयेत् । किञ्च प्रामकृतदेवालयस्थापनीयदेवबेराणि तु नवनालप्रमाणयुतानि निर्मापयेत् । नगरनिर्मितमहाप्रमाणयुतदेवालय स्थापनाईदेवबेराणि सर्वाणि दशतालप्रमाणयुतानि वा द्वादशतालप्रमाणयुतानि वा स्थापयेत् ॥
तत्र सु कोऽपि नियमः। यथा - वीरभद्ररघुनाथकार्तिकेयप्रमुखाना वीररसप्रधानदेवानां बेराणि द्वादशतालप्रमाणसहितानि