SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ७६७ आधारासनसंयुक्तं प्रसन्नमुखमण्डलम् । आसीनं वा शयानं वा तिष्ठन्तं वा यथाक्रमम् ॥ २५ ॥ तत्तद्वाहयुत वापि लोहबेर क्कांचन्मतम् । कारयित्वा यथाशोभं सुमुहूर्ते सुलग्नके ।। २६ । नयनोन्मीलनं कुर्याद्भङ्गार्यो दीक्षितोऽपि वा । इस्तेऽभयमुद्रामन्येषां तत्त्रमुद्राश्च यथाक्रतं योजयित्वेनेषां बेराणां कल्पनं तत्तत्स्थलाई प्रतिष्ठाकारिणो वाञ्छाव कारयेत । किन यथाशास्त्रक्रमं शयानमासीनं तिष्ठन्तं वा कचित्तत्तद्वानोपरि विविधासनस्थितं वा प्रकल्पयेदिति च क्रमः । एवमेतेषां पुंबेरायुधयोजनक्रमः स्त्रीबेरायुधयोजनक्रमश्च मूर्तिध्यानाख्य शिल्पग्रन्थे विस्तरशः प्रतिपादितो द्रष्टव्यः । प्रन्थविस्तरभयान्नेह लिख्यत इत्यलम् ॥ तस्मात्तत्रोक्तप्रकारेण शङ्खचक्रगदाखङ्गशूलाद्यनेका युधजालेरभयादिनानामुद्रणैश्च भासुरहस्तानामेतेषां देवबिंबानां, देवीबिम्बानां, भक्तबिम्बानामन्येषां नवग्रहदिक्पालादिदेव बिम्बानां, नारदव्यासशुकपराशरादि महर्षिबिम्बानामीश्वरांशेन मानवतनुमाश्रित्य लोकेऽवतीर्णानां स्वगुरूणाश्व साकल्येन बेरनिर्माणानन्तरं पूर्वोक्तरीत्या तेषां संततनिवासाय कल्पितानां वेदिकानामुपरि " तानि बेराणि स्थापयित्वा शुभे मुहूर्ते नदति वाद्यजाले, स्थपतिबरशिल्पी, भट्टारको दीक्षितो वा तेषां बेराणां नयनोन्मीलनकर्म कारयेत् ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy