________________
७६०
ज्योतिस्स्वरूपा ये प्रोक्तास्तद्देव्यो याश्च कीर्तिताः । गरुत्मानन्दिदेवेशो देववाहाश्च ये मताः ॥२॥ देवायुधस्वरूपा ये द्वारपा ये च कीर्तिताः । शास्त्रप्रवर्तका देवा ये चान्ये मुनिपुङ्गवाः ॥ ३॥
शिलादिभिर्द्रव्यजालैरेतेषां रूपकल्पनम् ।
एवं वासवाग्नियमनिऋतिवरुणपवनधनेशेशानाख्या ये दिक्पाला देवविशेषाः, ये च सूर्यचन्द्र शुक्रकेतुबुधभौमराहु. गुरुशन्याख्या प्रहपतयो देववराः, अन्ये च ये ज्योतिर्मया निर्दिष्टा देवाः विष्वक्सेन मनक सनन्दनाद्या दिव्यसूरयो, याश्च लोकमातरो लक्ष्मीगौरीशारदाछायास्वाहाद्याः एतेषां स्वरूपमपि बेरकल्पनेषु चित्रकल्पनेषु चारोप्य प्रत्यहं अमन्दानन्दप्राप्तये पूजयेयुरित्यर्थः ॥
किञ्च पूर्वोक्तानां हरिहरब्रह्मादिदेवानामायुधांशभूतास्तदिव्यस्थानद्वारपालकरक्षकाश्च ये प्रकीर्तिताः थे चैतेषां देवोत्तमानां भक्तिनिलया वैनतेयनन्दि पावमानिप्रमुखा ये च देववाहनभूताइशेषहंसमयूरादयो, ये च दिव्यचक्षुषश्शास्त्रप्रवर्तकाः गोत्रप्रवर्तका नारदकाश्यपात्रिभृगुकुत्सवसिष्ठगीतमादयो मुनीन्द्रा. स्सर्वेषामेतेषां स्वरूपञ्च बैरकल्पनेषु चित्रकल्पनेषु वारोप्य पूजयेदिति शास्त्रकारोपदेशलक्षणवाक्यार्थो बोध्यः ॥