________________
बेरं चित्रमिदं प्रोक्तं भक्तानां भक्तिवर्धकम् ॥ ४ ॥ रत्नं सुवर्ण रजतं प्रवालं दन्तदारुकम् ।। शिला च लोहो बेराणां द्रव्यमाहुमुनीश्वराः ॥ ५ ॥ पीतशुक्लादिजालन्तु चित्रद्रव्यमुदाहृतम् । द्रव्यैरेतैर्दोपहीनैश्शिल्पी निर्माणकोविदः ॥ ६ ॥ क्रियासूत्रप्रमाणज्ञस्तालज्ञप्टङ्ककमवित् । दोपहीनं गुणोपेतं देवरूपं प्रकल्पयेत् ।। ७ ॥
तस्मादेतेषां बेरनिर्माण केन वा द्रव्येण कल्पयदित्या. काङ्क्षायां तदह द्रव्य जातिक्रममाह --शिलादिभिरित्यादिना । दोषहीनाभिः स्त्रीशिलाभिर्वा शिलाभिर्वा सुतप्तशुद्धघनेष्टिकाभिर्वा सर्वेषां तेषां पूर्वोक्तानां देवानां मूलबेरकल्पनं निर्मापयेदिति क्रमः । कचिद्दारुभिस्सारवद्भिरेतेषां मूलबेरवल्पनमपि युक्तमेवेति साधवः । मूलबेरोत्सवबेरनिर्माणफलन्तु स्पष्टमेव लोकानामिति ।।
तस्मादेतद्रव्ये इशुद्धधनार्जितैर्मूलवेरनिर्माणमादौ यथाक्रम निर्मापयित्वा नवरत्नखण्डजालकैर्वा, सुवर्णखण्डी, जातरूपखण्डैर्वा, प्रवालजाला, शुद्धदन्तखण्डेवी, कचित्सारदारुखण्डेसाम्रादिपञ्चलोहवर्गद्रव्यैर्वा, स्वस्थसंपदनुगुणं उत्सवबेरनिर्माण प्रकल्पयेत् । एवं शुलपीतहरितकृष्णनीलादिवर्णैस्तत्र तत्र चित्रकरूपमश्च कार्यमिति क्रमार्थो शेयः ।।
B.S. 96