________________
आधारसूत्रसंयुक्तं बीजाक्षरयुतन्तथा । श्लक्ष्णितं टङ्कवेशेन मेलयेत्तु दिने बुधः ॥१०॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलविधदेवपीठलक्षणकथनं नाम
अष्टसप्ततितमोऽध्यायः ॥
किमर्थम् ? अनेन रन्ध्रेण पूर्वोक्तेनोलकर्णेन च रज्जु प्रवेशयित्वा गजतुरगादिवाहनमस्तको परितले बेराणां दृढं स्थापनार्थमिति क्रमः । तस्मादनेन लक्षणेनोपेतेषु आसनेषु वासुदेवमाधव. नारायणरङ्गनाथादिविष्णुबेराणि चतुरश्रपीठे वा दीर्घाकारपीठे वा योजयेत
किश्वेष्वेव चतुरश्रदीर्घाकारपीठेषु मुख्यानां शिवबेराणां स्थापनं युक्तम् । कचिदेवेवासनेषु देवीनां बेराणीति नवीनाश्शिल्पविदः । अथापि प्राचामाशयस्तु षडाष्टा श्रद्वादशाश्रषोडशाश्राख्यासनेषु सुदर्शनशङ्खशूलाद्यायुधानां कालीकरालीभैरवीग्रामदेवीचण्डिकालक्ष्म्यादिसकलदेवीबेराणां सप्तमातृकाबेराणां च स्थापनं युक्तं क्षेमकरमिति ।।
एवं कल्पनीयमिदमासनजालं बेरयोजनात्पूर्वमेव तत्तदेवतामातृकाबीजाश्चररेखायन्त्रनवरत्नादिविन्यासपूर्वक मनोहरं