________________
मिति च क्रमः । तस्मादेवं कल्पनीयस्यासनम्य पीठस्य बोत्सवबरेण साकं दृढ सन्ततयो जनमेव युक्तम् । वाहनाद्यारोपण समयेऽपि एतदासनोकर्णनिर्माणेन बन्धन नौकर्यश्च संभवति । एतेषां पीठानां नियोजनक्रमस्तु नवीनइिशल्याचार्टीभितभट्टारकैश्च नाङ्गीक्रियत इति ॥
अपि चात्र पीठनिर्माणे माहेश्वरलिङ्गानामध:कल्पने अभिषेक जलपतनार्थ गोमुखकल्पनं वामभागे कार्यमिति नियमः । एवं कचिद्विष्णुमूलबेराणामधाकृतासनकल्पनेऽपि अभिषेकजल. निस्सरण मार्गः कल्पनीय इति । किञ्च कल्पनस्यास्य गोमुखमिति नाम केचिद्वदन्ति ।।
__ एवंलक्षणोपेतं कल्पनीयानामेतेषां दशविधानामामनानामपि स्वरूपन्तु पूर्वोक्तोपपीठनिर्माणरीत्या जन्मपद्मकम्पवाजनपङ्कजादिस्थलं रेखया पूर्व विभज्य तक्षणक्रमेण कचिद्वर्धनक्रमेण च अङ्गुलकिष्कुभागप्रमाणयोजनपरिकल्पनेन उपरि पद्मदलाध:पद्मदलादिविविधचित्रभासुरं कचिन्निरन्तररेखायुक्तं, कचिद्वहुबिन्दुजालमेदुरितं क्षुद्राङ्गणविभजनश्च कारयित्वा दृढं वन्धयेदिति वाक्यार्थक्रमः ॥
किश्चैवं कल्पितानामुत्सवबेरपादान्तिकतले योजनीयानामेतेषां दशविधासनानामुभयोरपि पार्श्वयोः तत्तद्वेरतलौन्नत्यप्रमाणानुगुणं रन्ध्र प्रायशो वर्तुलाकारं कचिञ्चतुरनं कारयेत् ।