________________
७५४
पद्मपीठं शेषपीठं कुमुदं पीठमेव वा । सोमपीठं भद्रपीठं मूलबेराहेकं मतम् ॥ ३॥
लिङ्गानामपि चाधस्ताल्लिङ्गपीठं सगोमुखम् । ताल मानवशात्सर्वबेराणां पीठयोजनम् ॥ ४॥ मण्डलञ्चतुरश्रं वा दीर्घाकारमथापि वा। षोडशाअं द्वादशाभं वस्वश्रञ्च षडश्रकम् ॥५॥ अर्धचन्द्रं त्रिकोणं वा चापाकार क्वचिन्मतम् ।
१ पद्मपीठनिर्माणम, २. शेषपीठनिर्माणम , ३ कुमुद पीठनिर्माणम् , ४. सोमपीठनिर्माणम् ,
५ भद्रपीठनिर्माणम् इति मुख्यकोटित्वेन पञ्चविधरूपं भवति । एवं शिलानिर्मितमहेश्वरलिङ्गानामधोभागे स्थापनीयमासनं लोहादि द्रव्यनिर्मितनटराजपशुपतिगौरीकान्तकार्तिकेयविनायका शुत्सबबेराणामधोभागे कल्पनीयमासमा तत्सद्वेरताल. प्रमाणानुसारेण निर्माणपरिपाठ्या च बहुरूपं भवति । तस्मादेवं प्रतिपादितं विष्णुबेरासनं शिवबेरासनं सर्वमपि दशविधं कथितम् । यथा- १ मण्डलपीठनिर्माणम् , २ चतुरश्रपीठनिर्माणम्,
३ दीर्घाकारपीठनिर्माणम , ४ षोडशाश्रपीठनिर्माणम , ५ द्वादशाश्रपीठनिर्माणमा , ६ अष्टामपीठनिर्माणम् , • षडश्रपीठनिर्माणम् , ४ अर्धचन्द्रपीठनिर्माणम् ,