________________
७५५
पीठप्रमाणमादिष्टमेवं दशविधं क्रमात् ॥ ६ ॥ षडगुलं वैकहस्तं द्विहस्तं वा प्रकीर्तितम् । देवानामपि देवीनां वेदिकायुक्तमेव वा ॥ ७॥
९ त्रिकोणपीठनिर्माणम,१० चापाकारपीठनिर्माणमिति ।। एवं प्रतिपादितं दशविधजातिभेदविभक्तपीठनिर्माणमपि पूर्वोक्तदेवबेराणामधोभागे पादारविन्दस्याधस्तात्तले तन्निर्माणन दृढसंबद्धं कारयेत् । अयमुत्तमः पक्ष इति समयः। कचिदिमासनं तद्वेराधःस्थलेन समये योजनाई. वियोजनाहं च कार्यमिति । अयमधम: पक्ष इति मतिः। किश्चात्र क्षुद्रप्रमाणवत पीठकल्पननामभाक् , महाप्रमाणवत् आसननामभाग्भवतीति च क्रमो वोध्यः ॥
किश्चैवं स्थापनीयानामेतेषां दशविधानामपि पीठानामासनानां वौनत्यप्रमाणन्तु केषाम्चिद्वराणामधोभागे षडङ्गुलं योज्यम् । अन्यत्रै कहस्तन्नित्यप्रमाणं, केषाम्चिद्वेराणामधोभागे द्विहस्तौन्नत्यप्रमाणं, कचिन्महेश्वरलिङ्गानामत्युनताकाराणामामतं तु सगोमुखं त्रिहस्तचतुर्हस्तपश्चहस्तादिकौनत्ययुतं स्थापयेदिति शिल्पसमयः । सर्वथा मूलबेरस्थापनात्पूर्वमेव तेषां मूलबेराणामधोभागे स्थापनीयमासनन्तु न चाल्यभेव । इदच लक्षणं महेश्वरलिङ्गाधारभूतासनस्यापीति भावः ।।