________________
अथोपपीठलक्षणकथनं नाम सप्तसप्ततितमोऽध्यायः ।।
उपपीठक्रियायोगः शोभारक्षणवर्धकः । तस्मात्तत्कल्पनं शस्तं निर्माणे बहुरूपके ॥१॥ स्थलभेदाक्रियाभेदादधिष्ठानस्य चोर्ध्वके । अधस्ताद्वा यथाशोभं तन्निर्माणं प्रयोजयेत् ॥ २ ॥
॥ सप्तसप्ततितमोऽध्यायः ॥ अथास्मिन् सप्तमप्ततितमेऽध्याये उपपीठलभणमाह - उपपीठक्रियायोग इत्यादिना। अधो वक्ष्यमाणेषु मर्वेष्वपि कल्पनेषु उपपीठकल्पनयोजनन्तु तेषां कल्पनानां शोभाजनकं परम्परया रक्षणदायप्रदश्च भवतीत्युपपीठकल्पनफलमुक्तम् । तस्मादेतदुपपीठकल्पनं तत्र स्थलयोग्यं कार्ययोग्यं च प्रयोजयदिति लक्षणवाक्यार्थः । किञ्चेद मु परिकल्पनं प्रायशोऽधिष्ठानस्योद्धभागे स्तम्भानामधोभागे च स्थाप्यम् । एवं क्वचिदधिष्ठानस्याधोभागे च प्रयोज्यमिति सामान्य स्थल योजनकपः ॥
विशेषस्थलनिर्देशो यथा – सर्वेष्वपि गृहादिकल्पनेषु प्रथमद्वारसमीपस्थलस्थापितवेदिकाया अधोभागे सर्वेषामपि द्वाराणामधोभागस्थले, क वाटफलकायाश्चान्ततलेषु गवाक्षाणामधोभागे, रन्ध्रस्तम्भानामधोभागे,तूलस्थापनस्थलस्याधोभागे, भित्तीना