________________
७४७
तदुत्तमं मध्यमं वाऽधर्म कल्पनमीरितम् । तोरणादिविभेदेन क्वचिद्बहुविधं मतम् ॥३॥
प्रतिभद्रं वाजिभद्रं मञ्चभद्रन्तु शैलजम् ।
मारम्भस्थल, प्रस्तरकल्पनानामधोभागे, तोरणकल्पनानामधःस्थले, पर्यवानां शिबिकानां डोलानामधाभागे, सोपाननिर्माणानामधोभागे चत्वरतलस्यान्तिमस्थलेऽङ्गणस्थानानामधोभागे, भित्तीनां सर्वासामुपरिभागे, गलस्थाने, तिर्यग्दारुकादिस्थापनस्थले, कल्याणशालानां स्तम्भोपरिप्रवेशितदारुकल कोपरितले, रम्ध्रस्तम्भानां गलान्तभागे, स्थलान्तरेष्वपि तदिदमुपपीठकल्पनं योजयेदिति क्रमः॥
किञ्चैतादृशाधिष्ठानेन वोपपीठेन वा विना यन्निर्माणं प्रकल्प्यते, तद्गृहभवनादिवेदिकास्तम्भकुड्यादिकल्पनं शोभारहितं निन्द्यं भवेत् । न चिरकालस्थितये चेति शिल्पशाखः क्रियासौष्ठवमुनिभिरुदीरितमिति भावः। एवंप्रकारेण प्रतिपादितस्थलेषु कचिदुन्नतप्रमाणोपपीठयोजनं कचिन्मध्यमप्रमाणोपपीठ. कल्पनयोजनं च तत्तत्कार्यानुसारेण निर्माण स्थलानुसारेण च यथाशोभं युक्त्या दृढं प्रकल्पयेदिति शास्त्रकारोपदेशः ॥ ३ ॥
किञ्च पूर्वोक्ताभिः सप्तविधनिर्माणशैलीभिनिर्मितानां गृहभवनहर्म्यप्रासादशालामण्डपादीनां निर्माणेष्वपि सकलेषु