________________
GTÉ
मण्डलं वरणस्थानं शुभदं नृपमन्दिरे ॥ ९ ॥ पर्वते वा भूमिभागे कल्पने विविधे मतम् । समद्वारयुतं वापि विपमस्थानवेशकम् ॥ १० ॥ समसूत्रप्रमाणेन पादहीनादिभेदतः । हरेरस्य धातुर्वा तत्तचिह्न प्रयोजयेत् ॥ ११ ॥ कोणेषु मध्यतालेषु पार्श्वे प्राकारकल्पने । सुधालेपित कैर्वज्र योजनेंस्तक्षणैरपि ॥ १२ ॥
किवं कल्पितानां देवप्रासादप्राकारकुड्यानामुपरिभागे ईशानादिदिकोणेषु कचिन्मध्यतलेष्वपि तत्तदेवता चिह्नभूतवृषगरुडंस मयूरादिस्थापन कार्यम् । एवं भूपालप्रासादकड्याना - मुपरिभागे तु राज्ञां जयप्रदं खड्गध्वजपटादिकं लेहेरसुधेष्टिकादिभिर्वा निर्मापयेदिति क्रमः । अपि चैवंरीत्या लक्षणोपेतानां देवालयप्राकारकुड्यानां मध्यभागे प्रतिप्राकारत प्रवेशाई द्वारं पूर्वोक्तरीत्या स्थापयेत् । क्वचिन्मध्यस्थाने कोणादिविषमस्थानेषु च हीनप्रमाणं क्षुद्रद्वार कल्पनमपि नृपादीनामिच्छानु गुण स्थाप्यमेव भवति ॥
किन सुधाचूर्णवज्रलेपनादिभिरतिनिबिडमचञ्चलस्थापि - तानामिष्टिकाकुड्यानां कचित्कोणभागेषु बहिरन्तश्च स्थले उपप्रकुड्यनिर्माणं चातिदायय कल्पनीयमिति भावः । एवं सर्वत्र प्राकारादिवृहत्कुड्यानां च निर्माणं तत्र तत्र कल्पनीय