________________
७४३
एवं भूपालभवनमन्दिरावरणस्थलम् ॥ ७ ॥ आदौ वृद्धियुतं प्रायः क्रमाद्धीनं प्रकल्पयेत् । प्राकारकल्पनेष्वेवं दैविकेषु तथा मतम् ॥ ८ ॥ चतुरश्रं व्यासहीनं दैविकं संप्रकल्पयेत् ।
किवात्रोक्त कूपाकारटनाकार कल्पनादिस्वरूपन्तु गुरूपदेशेन कार्यनिरीक्षणवशात्स्वयं युक्तया च शिल्पिभिरेवमवधायें भवति । किश्चैवंप्रकारेण भूपालदुर्गप्राकारभित्तिकुड्यानां निर्माणं शस्तं भवति । तस्मादिदं भूपालदुर्गभित्तेः प्रासाद कुड्यस्य नगरप्राकारकुड्यस्य च स्वरूपन्तु तत्तत्स्थलप्रमाणानुसारेण चतुरश्रं मण्डलाकारं दीर्घाकारमीशानादिदिकोणभागेषु कचित् कोणकल्पनयुत निर्माध्यम । किन देवालयप्राकारकुड्यस्य स्वरूपं तु न मण्डलाकारं कोणभागेषु कोणकल्पनयुतं कार्यम् । परन्तु तत्तद्देववास्तुस्थल स्वरूपानुसारेण दीर्घाकारं वा चतुरश्रं वा स्थापयेदिति शिल्पशास्त्रकाराणां नियमो ऽवश्यमनुष्ठेयः ॥
तस्मादेवं कल्पनीयानां नगरदुर्गभूपप्रासाददेवप्रासाद गृहभषनइर्म्यकुड्यानां सर्वेषामप्यधोभागे भूभिलम्बनतलादुपरि हस्तद्वयाधिकवैशाल्यप्रमाणं योजयित्वा तदुपरि क्रमात्कुड्य कल्पने कचित्किचिदेकाङ्गुलब्यङ्गुलादिक्रमाद्वैशाल्यहीनत्वमपि योजनीयम् । एवं कल्पनमेव सर्वेषां कुड्यानां दाढप्रदमिति भावः ॥