________________
७३६
मण्डलाकृतिरग्र्या तु पट्टिका च द्विभागिका ॥ १४ ॥ नानामुखसमोपेतं मौलिभागयुतन्तु वा । स्थूपिप्रकल्पनं तत्र लोहजं दृढमन्धिकम् ॥ १५ ॥ प्रस्तरान्ते मध्यभागे त्रिमूर्तिस्थानकैयुतम् । पृथग्बेरस्थलं वापि पौषस्थानमथापि वा ॥ १६ ॥ देवानामपि देवीनां दामानां गर्भगेहके । कलिङ्गं द्राविडं शौरसेनिक कौसलन्तथा ॥ १७ ॥
सर्वविधविमान कल्पनेष्वपि तादृशग्रीवास्थलं चतुरश्राकृतियुतमेव निर्माप्यमिति नियमः । किश्चैवं कल्पितस्य प्रीवास्थानस्यो. परितले मण्डलाकारमेव स्थूपिकल्पनं द्विद्विभागप्रमाणाध्यपट्टिकाकल्पनसमेतं नानाचित्र नानानन समन्वितञ्च स्थापयित्वा तदुपरि कलशस्थापनार्थ अध:कील संयोजनं दृढं कारयेत् । किञ्चैतादृशप्रस्तरस्थलं सुवर्णपट्टकवचितं वा रजतपट्टाच्छादितं वा ताम्रपट्टाच्छादितं वा कारयित्वा तत्र हरिहरब्रह्मदिक्पालाद्यनेकदेवरूपसंयोजनं कल्पयेत् ॥
कचिदेतादृशप्रस्तरभागे प्राच्यादिपु चतुर्वपि दिग्भागस्थापनेपूपरितले पौषाकृतिस्थलं प्रकल्पयित्वा तत्र तद्गर्भगृहस्थापितदेवदेव्यादिमूर्तीनां चित्ररूपादिकं च योजयेत् । किश्च तादृश. बेरस्यान्तिकस्थले फलकातले तत्तदेववाहनत्तिह्न भूतनन्दिवषगरुड.