SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ७३७ विमानकल्पनं कार्य कुम्भपञ्जरसंयुतम् । बोधिकाजालकैयुक्तं द्वारपालाश्रितन्तु वा ॥ १८ ॥ रन्ध्रहीनं मध्य कल्पमवाग्वक्त्रादिवर्जितम् । देवरूपसमोपेतं कल्पयेचित्रभूषितम् ॥ १९ ।। कर्णकूटक्रियोपेतं कीलकुम्भयुतं क्वचित् । हंसमयूरादिबिम्बस्थापनं च कार्यम् । एवमुक्तरीत्या विमाननिर्माणन्तु कलिङ्गद्राविडशैलीद्योतकं भवतीति शिल्पसमयः ।। अनेनैव प्रकारेण शूरसेनकोसलादिशैल्यन्तरविमाननिर्माणमपि युक्त्या तत्र देशेषु शिल्पी प्रकल्पयदित्युपदेशः । किञ्च तत्र मण्डलाकारविमानं वा चतुराकारविमानं वा व्यासाधिक्यप्रमाणविमानं वा तत्र तत्र देशेषु देशीयशैलीद्योतककल्पनं वा विशेष सहितं कारयेत् । किञ्च सर्वत्र शैलीनिर्माणषु कम्पवाजनकपोतकमलकुमुदमुख पट्टिकादिस्थानविशेषाणां स्थलप्रमाणविभजनेनैव तत्तन्निर्माणस्वरूपं सर्वमपि स्पष्टं भवेदिति भावः ।। किश्चात्र विमानकरूपने बोधिकाजालकुम्भपञ्जरयुक्ते प्रतितलं षा एकस्मिन् तले षा चतुर्वपीशानादिकोणस्थानेषु कर्णकूट कील. कुम्भस्थापनं पूर्वोक्तपोषभागस्थितदेवबिम्बरूपादेरुभयोरपि पार्श्वयो। द्वारपालकल्पनम्न तदनुगुणप्रमाणं यथाक्रमं स्थापयेत् ॥ किश्चैवं कल्पितं विमाननिर्माणन्तु रन्ध्रादिदोषवर्जितBrs. 93
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy