________________
७३५
द्विभागेन महापट्टमग्रपट्ट त्रिभागतः ॥ ११ ॥ वेदिका नागबन्धश्च पादश्च कमलं घटः । पञ्चभागश्च षड्भागस्सप्तभागोऽथवा भवेत् ॥ १२ ॥ फलकाबोधिकाभागो द्विभागश्च कपोतकः । प्रस्तरश्चाष्ट भागेन कथितो बहुवक्त्रकः ॥ १३ ॥ ग्रीवा तु दशभागेन चतुरश्राकृतिभवेत् ।
तदुपरि त्रिभागेन महापट्टकल्पनं, तथैव त्रिभागेनाप्रपट्टकल्पनश्च कारयेत् । किश्तेषु स्थाने वेदिका नागबन्धतलं, पादतलं, कमलतलं, कुम्भतलं वा पाञ्चालकोसलमागधद्राविड्यादिशैल्यनुगुणं कल्पनं यथाक्रमं प्रकल्पयेत् ।।
किश्चैवमत्र कल्पितस्य कल्पनस्य निरीक्षणेनैव सुलभमेव विमानजातिज्ञानं भवेदिति भावः । एवङ्कल्पितं कल्पनं सर्वमपि विमानस्य मध्यतलकल्पनमिति क्रमः । अपि चैवं कल्पितस्य कल्पनस्योपरितले प्रस्तरकल्पनं स्थाप्यम । तादृशप्रस्तरकल्पनमनेक. मुखसहितमनेकचित्रपोपादिमण्डितं चाष्टभागप्रमाणयुतं कार्यम् । तत्र प्राच्यादिषु चतुर्वपि दिग्भागेषु नानारू पदेवगन्धर्वहरिहरब्रह्मादिचित्रस्थापनं सुधेष्टिकालोहपट्टादिभिः कार्यमिति च क्रमो ज्ञेयः॥
किञ्च सदुपरि दशभागेन प्रीवानिर्माणतलं कार्यम् ।