________________
एकेन कम्पनिर्माणमेकहस्तद्विहस्तकम् । ऊर्ध्वस्तम्भप्रमाणन्तु कल्पनान्तरभेदतः ॥ ८॥ उपपीठं कल्पयद्वा प्रान्तपट्टिकया युतम् । द्वाभ्यामेकेन वा तत्र उपानत्स्थानमीरितम् ॥९॥ चतुर्भागेन पद्मन्तु मुखपत्रसमन्वितम् । कम्पमेकेन कर्तव्यं पार्श्वनेत्रं द्विभागिकम् ॥ १०॥ पञ्चभागेन कुमुदमेकेनोव॑तलं मतम् ।
दूर्ध्व शिखरतलपर्यन्तमोन्नत्यं प्रमात्वा तत्र प्रमाणे चतुर्भागं, विभाग, द्विभागांमत्यादिक्रमण कल्पनकरण इति भावः । तथा कल्पितम्य पादुकास्थानस्योपरितले एकभागेन कम्पतलं निर्मापयेत् । तदुपयूस्तम्भप्रमाणन्तु एकहस्तौन्नत्ययुतमथवा कचिद त्युन्नतविमानकल्पने द्विहन्तोन्नत्यं योजनीयम। तस्योर्ध्व स्थस्य कल्पनस्याधस्तात्वचिदुपपीठकल्पनं प्रान्तपट्टिकाचित्रादियुतं च कार्यम । तत्त्वैच्छिकमिति भावः ।।
किश्वैवं कल्पनानन्तरं तस्य स्तम्भस्य मौलिमागे एकभागेन वा भागद्वयेन वा पादुकान्तरकल्पनं कार्यम् । किञ्च तदुपरि चतुर्भागेन पद्मकल्पनं मुखवक्तरेखासहितं निर्मापयित्वा तदु परि पुनरप्येकेन भागेनो कम्पतलकल्पनं भागद्वयेन पावनेवस्थान तदुपरि भागपञ्चकेन कुमुदकल्पनं तदुपर्येकेन भागेनोलतलं