________________
चतुर्भागं नयेद्भूमौ पादुका तत्प्रमाणका ॥७॥
द्रव्यभेदक्रमः । सर्वथा न दारुफलकादिकमत्र विमानकल्पने यांज्यामिति ॥
एवमम्य विमानकल्पनम्य चतुर्वपि दिग्भागेषु अधिष्ठानतल मुबकल्पनं पोपनिर्माणयुतं वा एकह स्तद्विहस्तन्नित्ययुलस्तम्भमहिनं वा कारयित्वा गोपुरतळप्रकल्पनरीत्यैवात्रापि विमानकल्पने गवाक्षहीनं कल्पनं समप्रमाणं समचित्रयुत क्रमादुपर्युपरि कल्पने न्यूनप्रमाणकं प्रकल्पयेदिति शिल्पसमयविदः ।।
किञ्चैवमत्र विमाननिर्माणाय भित्तिकाराश्शिलातक्षकादयश्च गुरूपदेशकमात्पूर्वकृतनिर्माणदर्शनाच्छास्त्रज्ञानपरिचयात स्वयुक्त्या चेतस्ततो निर्माणादिदोषहीनमव्रणमखण्डं अचञ्चलं विमानमिदं स्थापयेत् । एवं करणे तस्य शिल्पिना कीर्त्या दय अक्षोभ्या इति । तस्मादेवं शिल्पिभिर्युक्त्यादिभिरेव प्रायशो निर्मापणीयम्यास्य विमानकल्पनस्य कानिचन निर्माणलक्षणानि तेषां प्रमाणान्यपि विवृणोति - चतुर्भागमित्यादिना । पूर्वोक्तम्य विमानाधिष्ठानकल्पनम्योपरिभागे पादुकाख्यचित्रस्थानं चतुर्भागयुतं तदाधारकल्पनभागश्च चतुर्भागयुत प्रकल्पयेदिति लक्षणवाक्यार्थक्रमः॥
किश्चात्रोक्तभागक्रमस्तु विमानकल्पनायास्याधिष्ठानभागा