________________
अधिष्ठानस्तम्भकर्णप्रस्तराख्यविभागभाक् ॥ ५॥ चतुर्भागौनत्यकलप्यं पूरयेत्खण्डनक्रमात् । शैलं सौधं लोहमयं विमानं दृढसन्धिकम् ॥ ६ ॥
तक्षयेद्वधयेन्मानक्रमतष्टतभेदनैः। त्रिगुणोन्नत्ययुतं वा तन्मानचतुर्गुणोन्नत्ययुतं वा विमाननिर्माणमिदं कल्पयेदिति विवेकः । अनेन गर्भगृहस्य तम्याधोभागे क्षुद्राधिष्ठानं वा मध्यमाधिष्ठानमथवोत्तमाधिष्ठानं कल्पनीयमित्युक्तमिति तत्क्रमः ॥
अथवा ग्रामादौ कचिन्निर्मितस्य गर्भगृहस्य मध्यभागे एवमधिष्ठानकल्पनाभावे तादृशगर्भगृहस्यान्तर्भागे स्थापितायाः पूर्वोक्ताया देववेदिकाया यावत्प्रमाणगौनत्य काल्पत तन्मानद्विगुणोन्नत्यव द्वा, तन्मानत्रिगुणोन्नत्यवद्वा तन्मानचतुर्गुणोन्नत्यवद्वा विमानकल्पनमिदं स्थापयदित्यर्थोऽपि ध्वन्यते । तस्माद्विमानकल्पनस्याम्योन्नत्यप्रमाण मेवं प्रथमतो निश्चित्य तत्र गर्भगृहमध्यतले देवबिम्बस्थापन प्रतिष्ठापनात्पूर्वमेव तस्य गर्भगृहस्योपरि भृत्यवगैरिदं विमानकरूपनं निर्मापयेदित्युपदेशोऽवधायः ॥
किश्चैवं कल्पनीयस्यास्य विमानस्यारम्भमागेऽधास्थले तदोन्नत्यमानानुगुणमधिष्ठानकल्पनं मध्यरन्ध्रहीनं घनशिलाखण्डैः मुखवर्धनसंयुतमेव चतुर्वपि दिग्भागेषु स्थापनीयम् । कचिद्विमानकल्पनमिदं घनेष्टिकादिभिस्सुधामिश्रितैश्च स्थाप्यमिति