________________
लोहैव्यान्तरै पमण्डपं स्थापयेत्क्रमात् । जपमण्डपकं वाऽपि वेदाध्ययनमण्डपम् ॥ १० ॥ अधिष्ठानयुतं प्रायश्चिरकालाय कल्पते । सोपपीठस्तम्भपालिं चित्रालङ्करणान्वितम् ॥ ११ ॥
च शिलापाट्टका सयाजनमेव शोभायै चिरकालांस्थतयं च भवति । तस्माद्यत्र यत्र कल्पनेषु शिला स्तम्भशिला पटलावरणादिकं क्रियते, तेषां तेषां निर्माणानां सर्वेपामप्याभागे तत्तत्कल्पनानुगुणं दृढघनशिलाखण्डैरधिष्ठानकल्पनमवश्यं कार्यमिति शिल्प नमयः ।।
न्यायशालाहस्तिशालावाजिशाला वैद्यशालादिकल्पनं साकल्येन शिलाभिरेव स्थापनीयं भवति । परन्तु भत्रियाणामन्येषां च विहारार्थ कल्पनीयमण्डपादिनिर्माणेपु शिलास्तम्भशिलापटलावरणयोजनं न शुभफलप्रदम् । किन्तु तेषां विहारमण्डपादिषु लोहकृतस्तम्भस्थापनं वा सुपिरस्तम्भस्थापनं वा चन्दनतिन्दुकादिमहीरुहखण्डस्थापनं वा कार्यम् । एवमावरणविषयेऽप्यूह्यम् ॥
एवं शिलामयमण्डपनिर्माणाय तत्तन्मण्डपस्थलविभषानुगुणं क्षुद्राधिष्ठानकल्पनं मध्यमाधिष्ठानकल्पनमुत्तमाधिष्ठानकल्पनं पा धनं योजयित्वा तदुपरि स्थापनीय स्तम्भश्रेणिस्थापनानुगुणं पूर्वाङ्गणं कचित्पाङ्गिणं कचित्सर्वभागेष्वप्यङ्गणकल्पनं च क्रमादिच्छा. विभवानुगुणं निर्मापयित्वा पूर्वोक्तसंख्याः स्तम्भपालीश्चित्र
8.8.90