SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ७१४ मुखाङ्गणसमोपेतं पाङ्गिणसमन्वितम् । चतुरङ्गणयुक्तं वा सवारं वा विवारकम् ।। १२ ।। समरेखादृष्टिहीनं समोत्तुङ्गविशालकम् । वाजिवक्त्रेण संयुक्तं गजवक्त्रान्वितं क्वचित् ॥ १३ ॥ यालीमुखसमोपेतं पार्श्वचक्रसमन्वितम् । शोभिताः स्थापयित्वा तदुपरि प्रस्तरतूलबलभ्यादिकं प्रयोज्य घनावरणं प्रकल्पयेदिति तत्क्रमोऽवधार्यः ॥ किश्चैत्ररीत्या कल्पितेषु बहुषु मण्डपेषु केषाश्चिन्मण्डपानामुभयो। पार्श्वयोर्घनभित्तिनिर्माणं केषाश्चिन्मण्डपानां मुखभागं विना भागत्रयस्थलेषु भित्तिस्थापनं केषाम्चिन्मण्ड पानां चतुर्वपि दिग्भागेषु भित्तिस्थापनं विनैव कल्पनञ्च करणीयम । तच्चच्छिकमेवेत्ययमर्थः 'सवारं वा विवारकम्' इति लक्षणवाक्येन प्रतिपादितः ॥ १२ ॥ तस्मादेवरीत्या स्तम्भान्तरभित्त्यन्तरतिर्यप्रसारणाख्यदृष्टिदोषादिसकलविधदोषवर्जितं कल्पितानामेतेषां मण्डपानां स्तम्भादिषु कस्याश्चितस्तम्भश्रेण्याः दर्शनायां सुरगरूपतक्षणं कस्याश्चित्स्तम्भश्रेण्याः धारणरूपतक्षणमन्यस्या: स्तम्भश्रेण्या: यालीरूपतक्षणमान्तरालिकस्तम्भश्रेणीनां शुकइसमयूरचकवाक • भल्लूकवानराद्यनेकतक्षणं विविधतोरणपताकाद्यलकरणं च प्रकल्पयेदिति विवेकः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy