________________
७ १२
चतुःपादयुतं वापि कचिदष्टपदान्वितम् । दशपादयुतं वापि द्वादशांघ्रिसमन्वितम् ॥ ५ ॥
षोडशस्तम्भयुक्तं वा स्तम्भविंशतिसंयुतम् । चतुर्विंशतिपादाढ्यमष्टाविंशतिपादकम् || ६ ||
द्वात्रिंशत्स्तम्भयुक्तं वा चत्वारिंशत्पदं तथा । पञ्चाशत्स्तम्भसंयुक्तं द्विपञ्चाशत्पदं क्वचित् ॥ ७ ॥
चतुष्षष्टिपदोपेतमशीतिस्तम्भभासुरम् ।
शतस्तम्भयुतं वापि मण्डपं बहुरूपकम् ॥ ८ ॥
स्तम्भस्थापनकार्याहपूर्वाङ्गणसमन्वितम् ।
शिलाभिरेव देवानां यतीनाञ्च मठक्रिया ॥ ९ ॥
स्थलविभवानुगुणं स्वसंपद्विभवानुगुणश्च चतुःस्तम्भयोजनं वाऽष्टस्तम्भयोजनं वा दशस्तम्भयोजनं वा द्वादशम्तम्भयोजनं वा षोडशस्तम्भयोजनं वा विंशतिस्तम्भयोजनं चतुर्विंशतिस्तम्भयोजनमष्टाविंशतिस्तम्भयोजनं द्वात्रिंशस्तम्भयोजनं चत्वारिंशत्स्तम्भयोजनं पचाशत्स्तम्भयोजनं द्विपञ्चाशत्स्तम्भयोजनं वा क्वचिश्चतुष्षष्टिस्तम्भयोजनमशीतिस्तम्भयोजनं शतस्तम्भयोजनं वा कार्यमिति वाक्यार्थबोधः ।।
एवं कल्पनीयानां देवागारमण्डप निर्माणानां यतिपरिव्राजकादिगुरुकुलनिवासाय कल्पनीयानां मठादिनिर्माणानां