________________
७०२
दण्डद्वयव्यास मानमथवा हीनमानकम् || ३ || तन्मानद्विगुणं वापि तन्मानत्रिगुणं तु वा । गर्भगहस्य दैर्घ्यन्तु कल्पयच्छिल्पांवेत्तमः || ४ |
द्वारपालवेराणां युगलं प्रथमद्वारपार्श्वयोर्द्वितीयद्वार तृतीयद्वारादिस्थानेषु वामदक्षिणपाश्वयोश्च क्वाचत्स्थापनीयमिति शिल्पसमयविदः ॥
किन गर्भगेहस्यास्य वैशाल्यन्तु दण्डद्वय प्रमाणवदिति, ग्रामकृत· देवालयगर्भगेहवैशाल्यन्तु एतस्मात्प्रमाणात्किचित्र यूनमेवेति क्रमो बोध्यः । ब्रह्मोत्सवादिविविधोत्सव करणाई मतिवैशाल्याद्युपेतभ्य कस्यचिद्देवालयस्य गर्भगे हवैशाल्यन्तु दण्डत्रयप्रमाणवत; कचितद्धिकप्रमाणवचेति ||
"
किञ्च सर्वत्र गर्भगेहकल्पनस्य दैर्घ्यन्तु वैशाल्यप्रमाणाद्विगुणितमानं, त्रिगुणितमानं क्वचिच्चतुर्गुणितमानचेति । इत्थं प्रमाणयुतगर्भगेहनिर्माणं तु ब्रह्मदेवगर्भगृहमिति नामान्तरभाग्भवतीत्यागमविद्भिरुदीर्यते । किव पूर्वप्रतिपादितशैल्या काचचापाकारगजपृष्ठाकारमण्डलाकाराद्यनेकविध गर्भगृहस्थापनं त्वनेनैव प्रमाणेन वा युतमेव प्रकल्पयेत् । क्वचित्तत्र तत्र स्थलविभवानुगुणं गर्भगृहप्रमाणाधिक्य हीनत्वयोजनमपि न दोषायेति मतिः || अथापि सर्वत्र तस्य गर्भगृहकल्पनस्य पूर्वभागकल्पनन्तु