SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ममनेत्रं समद्वारं द्वारपञ्चकभासुरम् । द्वारत्रयसमायुक्तं ग्राम्यमाहुर्मनीपिगः ॥ २ ॥ द्वारपाल|न्वितं तस्य पार्श्वस्थानं प्रकल्पयेत | ७०१ तनकैर्लाहकारैश्च निर्मितानां महेश्वरलिङ्गादिशिवमूलवेराणां वैकुण्ठवासादिविष्णुमूलवराणामेतेषामुत्सवबेराणाञ्च स्थापनस्थलं गर्भगृहमित्युक्तं भवति ॥ इदन्तु गर्भगृहं देवालयकल्पने स्थापितस्य प्रथमप्राकारद्वारम्य, द्वितीयप्राकारद्वारस्य तृतीयप्राकारद्वारम्य वा मध्यस्थितमण्टपादेव तिर्यक्सूत्रप्रमाणिते, तत्सम सूत्रपाताविरुद्धस्थले समद्वारवति आलय मध्यस्थाने स्थापयेदिनि शिल्पविदामार्याणां संप्रदायः । एवं तत्रत्य सर्वद्वाराणामभिमुखं भित्तिस्तम्भादितिर्यक्पतनदोषहीनं कल्पनीयम् । एतद्गर्भगेहन्तु ग्रामालयकृतं चेत्तदा आदिमध्यावसानस्थलेषु द्वारत्रयसहितं नगरादिविशालस्थल देवालये कृतं हारपञ्चकोपेतं स्थापयेत् ॥ " 9 एवमत्र गर्भगृहकल्पनस्य खण्डरूपस्य प्रथमद्वारमागे वामभागे दक्षिणभागे च तत्तन्मूलबेरजात्युचितद्वारपालकाख्यदेवबिम्बस्थापनमवश्यं कार्यमित्युपदेशः । किञ्चैतेषां द्वारपालानां निर्माणन्तु प्रायशश्शिलाभिर्लोकवचिनाभिर्लो हैव कार्यमित्युत्तमः पनः । इष्टिकाभिर्निर्माणमधमपक्षद्योतकमिति । एवं निर्मितानां
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy