________________
७०३
अन्तःप्रदक्षिणोपेतमथवा तेन हीनकम् । पार्श्वयोर्वा पृष्ठभाग गोमुख स्थानकं मतम् ॥ ५॥
द्विदण्डं वा त्रिदण्डं वा कुड्योत्मेधमथाधिकम् । द्वारान्तरे वेदिका वा क्षुद्रदेहल्यथापि वा ॥ ६ ॥
एवं द्वारत्रयद्वारपञ्च क संयुतं द्वारपालककल्पनापेनञ्च प्रकल्पयेदिति भावः । कचिन्मानाधिक्यवति गर्भगृहनिर्माणे गर्भगेहप्रथमभित्तेः बहिर्भागे प्रथमप्रदक्षिणस्थलं मावरणं मण्टपाकारनिर्माण महितं वा स्थापयेत् । किश्चास्य स्थलस्य गर्भगृहप्रदक्षिणस्थलमिति नामान्तरमुच्यते सद्भिः। इदमेव प्रथभप्राकार निर्माणमिति केषाश्चिन्मतम । एवंरीत्या गर्भगृहस्था पने गर्भगृहकल्पनस्यौन्नत्यं तु कचिदण्ड द्वयप्रमाणं, स्थलान्तरे दण्डत्रयप्रमाणवदिति ।।
किश्चास्य गर्भगेहकल्पनस्यान्तस्थले मध्यमध्यभागे देव. पीठालिका देववेदिका निर्मापणीया । अस्यामेव वेद्यां देवतानां वा देवीनां मूलबेरस्थापनमिति कपः । एवमत्र स्थापितानां मूलबेराणामभिषेकजलनिस्सरणार्थमस्य गर्भगृहस्यान्तःस्थले तस्या देववेदिकाया वामभागे वा दक्षिणभागे वा कचित्पृष्ठभागे वा शिलाखण्डकृतगोमुखाख्यक्षुद्रप्रणालीयोजनं भित्तिमिलितमेव कारयेत् । अपि च गर्भगृहमध्यस्थाने स्थापिताया देव वेदिकायाः पुरतःस्थले स्थापितानां पूर्वोक्तानां द्वाराणामन्तःस्थले क्षुद्र