SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ ६९८ ऐशान्यां धान्यभवनं मध्यस्थाने महागृहम् । कल्पनं मण्डपानां वा तन्नयेत्सालकक्रमात् ॥ ९ ॥ हस्तिशालावाजिशालागोशालाभिस्समन्वितम् । स्नानालङ्करणस्थानं विहारस्थानकानि च ॥ १० ॥ आस्थानमण्टपो वापि चतुः स्तम्भादि भूषितः । डोलाशयनशाला च गर्भगेहान्तरे मता ॥ ११ ॥ वायव्यां दिशि देवपर्यङ्कोपधानदुकूला भरणपट्टवस्त्रादिस्थापनस्थानं वा शालां, ऐशान्यां दिशि धान्यादिविविधद्रव्यस्थापनस्थानश्च मण्डपाकारमथवाऽनेकस्तम्भयुतशालाकारं प्रकल्पयेदिति शिल्पसमयो बोध्यः ॥ किन कचिन्नगरादौ स्थापिते महावैशाल्योपेते देवालये द्वितीयतृतीयादिप्राकारतलेषु देवाधीशायार्पितानां वारणानां वाजि - नां गवामुष्ट्रादीनां च शालां दृढकल्पनां स्थलविभवानुगुणं तत्र तत्र स्थापयित्वाऽवशिष्ट स्थलान्तरे प्राकारान्तरादिविभक्ते देवानां देवीनाचाभिषेकमण्डपं विहारमण्डपं डोलामण्डपं शयनमण्डपं, " " , , मासोत्सव मण्डपं पक्षोत्सवमण्डपं वार्षिकोत्सवमण्डपं वादनमण्डपमेबंरीत्या विविधसमयेपूपसेव्यानि मण्डपान्तराणि बहुविवचित्र भासुराणि विमानशिखरेपेितानि च स्थापयेदिति शास्त्रकारोपदेशः ।। च
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy