________________
६९७
देवीनां भवनैर्युक्तं भक्तानाश्च गृहैर्युतम् । पूर्व मण्टप संयुक्त गर्भगेहेन भासुरम् || ६ || सर्वत्र समसूत्राणां द्वाराणां स्थापनं मतम् । कवाटयुग्मकलनं शुभदञ्चात्र कीर्तितम् ॥ ७ ॥
आग्नेय्यां पाकशाला स्यात्कूपचत्वरसंयुता । नैर्ऋत्यां वाहनस्थानं वायव्यां वस्त्रगेहकम् ॥ ८ ॥
स्थानस्य समसूत्रवित्र्यासे पुरोभागे उत्तरत्र वक्ष्यमाणलक्षणोपेतं गभगृह निर्मापयित्वा तस्य सव्यापसव्यभागयाः दवानामालय पूर्वोक्तरीत्या पृथक्कल्पनयुतं तेन गर्भगेहेन मिलितं वा स्थापयेत् । किश्चैतस्य गर्भगृहस्य पूर्वोक्तवलिपीठध्वजस्तम्भस्थानस्य च मध्यभांग निर्मितो मण्डप पोडशविंशतिकद्वात्रिंशत्क संख्याकस्तम्भोपेतः पूर्वमण्डप इति नामान्तरभाग्भवतीति सतां व्यवहारः ॥
किञ्च सर्वत्र देवीगर्भगृहस्य देवगर्भगृहस्य व द्वारस्थापने तेषां द्वाराणां त्रयाणां पचानां वा मध्यरेखाक्रम सम्मानयुतो धनकवाटद्वययुनश्च प्रकल्पनीय इति द्वारनिर्माणशैली बोध्या । किन गर्भगृहस्यास्य लक्षणान्तराणि तूत्तराध्याये प्रतिपादयिष्यन्ते । तस्मादेवं स्थापितस्य गर्भगृहस्यामेय्यां दिशि तस्मिन्नेव प्राकारतलेSथवा द्वितीयप्राकारले कूपचत्वराङ्गणनिर्माणसहितः पाकालयः प्रकल्पनीयः । एषं नैर्ऋत्यां दिशि हंसमयूरादिवाहनस्थापनस्थानं, S. s. 88