________________
६९६
बहिरन्तस्तु वा स्थाप्यस्तटाकस्साङ्गणो मतः । जलमण्टपयुक्तो वा विमानशिखरोज्ज्वलः ॥ ४ ॥
बलिपीठसमायुक्तमष्टदेव पदान्वितम् । ध्वजपीठपुरोभागे पार्श्वयोर्मण्टपा मताः ॥ ५ ॥
प्राकारद्वयादिकल्पने कृते सति तत्र पूर्वभागे पश्चाद्भागे च द्वारद्वयं क्वचिद्वारचतुष्कं चतुर्दिध्यभागेषु स्थाप्यमेव । एवं द्वारकल्पनं प्रतिप्राकारतलमतिघनशिलाखण्डकृतं शोभावहं मौलिभागे गोपुरोपेतं रक्षाकरं च स्थापयेदिति क्रमः ॥
किञ्च क्वचिन्नगरकल्पिते द्वयाधिकप्राकारयुते देवालये निर्मिते सति तत्र प्रथमप्राकारान्तस्स्थले वा देवालयतटाकः सर्वतोदिक्षु अङ्गणनिर्माणसहितः सविमानजल मध्यमण्डप संयुक्तः स्थापनीय इति शिल्पसमयः । एवमालयस्य प्राकारान्तस्स्थले तादृशतटाकनिर्माणयोग्यविशालभूम्यलाभे प्राकारस्य बहिस्समुचिते स्थले पूर्वोक्तमाठवीथीसमीपे वा पार्श्वे वा तमिमं तटाकं स्थापयेत् ॥
अपि चैवं कल्पितस्य प्रथमद्वितीयतृतीयप्राकारान्तःस्थले गर्भगृहसूत्रस्य पुरोभागे ध्वजस्तम्भस्थापनं तत्पुरतः स्थळे समरे खे बलिपीठतलं च प्रकल्प्य स्थानस्य सव्यापसव्यभागयोर्नाना
मण्डपा: प्रकल्प्या इति च क्रमः । किवं कल्पितस्य ध्वजपीठ
1