________________
६९५
गोपुरद्वारसंयुक्तं प्राकारावृतवास्तुकम् || ३ ||
तस्यालयस्याविनेतु शिवस्य विष्णोर्वाऽभिमुखं तद्देवी नामायतनं स्थाप्यमिति प्राचां संप्रदायः । अयं काचित्क एव । देवानां देवीनां गृहकल्पनं तत्तदेवालय वास्तुस्थलविभवानुगुणं पृथग्वा मुख्यगर्भ गृहनिर्माणमिलितं वा स्थापयेत् ॥
एवं क्वचिन्महानगरारादिषु पृथक्कल्पनस्य देवी सदनस्य पूर्वोक्तस्य देवालयस्य च लक्षणान्तराणि सङ्ग्रहेण निरूपयति - गोपुरद्वार संयुक्तमित्यादिना । सर्वविधदेवालयनिर्माणस्य प्राच्यादिषु चतुर्ष्वपि दिग्भागेषु शिलामयप्राकार कुड्यस्थापन कार्यम् । एवं कल्पनीय कुड्याना मौन्नत्यवैपुल्याद्यनुगुणं दण्डद्वयदण्डत्रयाधिकनिम्नयुतं भूमिम्बनिर्माणं करणीयमिति भावः । एवं देवालयवास्तुस्थलेषु तत्र तत्र कल्पनीयानां सर्वेषामपि कुड्यानामौन्नत्यानुगुण भूभिलम्ब प्रमाणं युक्तयां स्वयमेवोह्य कार्यमित्यर्थो ध्वनीकृतो भवति । तस्मात्तथा निर्मितं प्राकारनिर्माणमेकं बा, कचिदेवालयादौ प्राकारद्वयं प्राकारत्वयमथवा प्राकारपच कं तदधिकसंख्याकं वा प्रकल्पयेत । एवं प्राकार निर्माणानन्तरं तेषां प्राकारकुड्यानां मध्यभागे प्राच्यादिचतुर्दिक्सूत्रस्थाने द्वारद्वयं द्वारचतुष्कं कचिदेकमेव द्वारं वा प्रकल्पयेत् । एवं प्रामवास्तुकृतदेवालयस्यैकप्राकार कल्पने तस्य मुखभागे द्वारस्थापनमेकमेवालम् ।