________________
६९४
वैधात्र मन्यदेवानां गेहूं सर्वमुखं शुभम् । महीधरादिस्थानेषु न पृष्ठस्थापनं शुभम् ॥ २ ॥ वास्तुमानवशात्सर्वं स्थापयेद्दीक्षितो नृपः ।
न
तथाऽपि कचिदुत्तमस्थलेषु संप्राप्तस्थलवीथीप्रमाणानुगुणकल्पनीयविष्ण्त्रालयं प्रायशो वासवदिङ्मुखद्वारं स्थापयेत् । क्वचिद्दक्षिणमुखमुत्तरमुखं पश्चिममुखं वा स्थापयेन । शिवालयनिर्माणन्तु प्रायशो दक्षिणमुखमेव स्थापनीयम । कचित्स्थलसौकर्यांद्यभावविषये प्राचीदिङ्मुखद्वारयुतालयकल्पनमपि दोपायेति । विधातुरालयस्तु पूर्वदिङ्मुख एव स्थापनीयः ! एवं ग्रामनगरारण्य भागकल्पनीयदेवालये विषयो ज्ञेयः । कचित्पर्वतसानुमौलितटादिषु कल्पनीयं पूर्वोक्तं हरिहरकमलासनगेहन्तु पूर्ववत्तत्तत्स्थलानुगुणद्वारसंयुक्तं शुभदं मनम् । न तु तस्य पर्वताने रत्यगावेऽधस्थले पृष्ठभागे द्वयोः पर्वतयोर्भेलनमध्यभागस्थले देवालयस्थापनं शुभदमिति मुनीनां तत्वविदामाशयः ॥
एवं यथा वा पशुपतिनटपति महेशशङ्करलिङ्गादिशिवमूर्तिभेदस्यालयदिङ्मुखनियमः तथैव वासुदेवरङ्गनाथ पद्मनाभकृष्णादिविष्णुमूर्तिभेदस्यालयदिङ्मुखनियमश्व प्रतिपादितः । तथैव तेनैव नियमेन गौरीलक्ष्म्यादीनां तत्तद्देवीनामालयश्च तत्तद्दिङ्मुखः कल्पनीय इति । कचिदतिविशाले प्राकारत्रयसंयुते देवालये