________________
अथ देवप्रासादलक्षणकथनं नाम
द्विसप्ततितमोऽध्यायः ॥ तैतलायतनं प्रायशुभदं सर्वदिङ्मुखम् । वैष्णवं सर्वतोवक्त्रं शैवं गेहन्तु दक्षिणम् ॥१॥
द्विसप्ततितमोऽध्यायः ॥ अथास्मिन्दि सप्ततितमे ऽध्याये सर्वेषामपि मानवानां निःश्रेयसादि सकलविध श्रेयस्सङ्कलनहेतुभूतस्य देवालयम्य लक्षणं तत्कल्पनस्थापनक्रमं च संझेपेण प्रतिपादयति --तैतलायतनमित्यादिना । तैतला: = हरिहरब्रह्माद यो देवाः; तेषामायतनं बिम्बारोपिवशक्तीनां तेषां सतनवासाहं मुख्यं गेहं पूर्वोक्तग्रामनगरादिसद्वास्तुभूमिषु सर्वदिमुखद्वारभासुर स्थापयेत् ॥
सर्वदिङ्मुखमित्यत्रार्थद्वैविध्यं बोध्यम् । तत्राद्यो यथाप्राची प्राकारमध्यतले द्वारमेकं दक्षिणप्राकारमध्यतले द्वारान्तर. मित्यादिक्रमेण महाद्वारचतुष्कसहितं देवायतनमिति । द्वितीयो यथा- स्वशक्त्यनुगुणं संप्राप्तासु प्रामनगरारण्यमहीधरादिशुभवास्तुभूमिषु तत्तत्स्थलमानवशाद्वीध्यादिस्थापनवशाद्वा प्राङ्मुखं वा दक्षिणमुखं, पश्चिममुखमुत्तरमुखमिति क्रमतो देवालयमुखद्वारभागः स्थाप्य इति । अयञ्च क्रमस्साधारणभूविषयक इति ॥