________________
६७७
दृढमण्टपकल्पं वा दृढकूटप्रकल्पनम् । दण्डिकाकल्पनं वापि नानामनममन्वितम् ॥ ३ ॥
पथिकादीनां चोरदुष्टसत्वादिभयनिवारण हेतुर्भवति । किञ्च तेषां पथिकादीनां धैर्यप्रदत् । तस्माद्भूपालादिभिरवश्यं मार्गभागेषु प्रतिक्रोशपरिमाणस्थलेषु, अरण्यभागेषु क्वचित्तदधिकमानेषु वा तायोवस्थाननिर्माण कार्यम ||
तादृशस्थानेषु क्वचित्समीपे वाऽध्वगमनादिना श्रान्तपथिकविश्रान्तिस्थानाख्यं मण्टपरूपकल्पनं, अथवा मध्यभागे समुचितप्रमाणं चत्वरस्थलं प्रकल्पयित्वा तत्स्थलं परितोऽङ्गणकल्पनत्रशात्कूटकल्पनाख्यनिर्माण कार्यम् । अथवा क्वचिद्ग्रामान्तरगामिषु क्षुद्रमार्गमध्यभागादिस्थलेषु दण्डिकाकल्पनाख्यमतिदैर्ध्य देकाङ्गणं वा निर्मापणीयम् । एवंविधेष्वेतादृशकल्पनेषु सर्वत्र श्रान्तानां पथिकादीनां श्रमापनोदनक्षमान्यासनकल्पनानि विविधप्रमाणानि कचित प्रकल्पयेत् । तथा स्थलान्तरे तेषां तात्कालिकपाकादिनिर्माणार्हस्थलं सचुल्लीकं सौकर्यदायीनि
कल्पनान्तराणि च निर्मापयेदित्युपदेशः ||
किन पूर्वोक्तेषु मण्टपकूटादिविश्रान्तिस्थानेषु मध्यचत्वराङ्गणसमीपस्थ कुड्या दिस्थानेषु दर्शनीयेषु तेषां पथिकादीनामुल्लासजनकानि देवगन्धर्व नलनहुषादिभूपालादीनां चित्रकल्पनानि