SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६७८ त्रिभूमिगोपुरं वापि पञ्चभूगो पुरन्तु वा । सप्तभूगोपुरं वापि पृथुस्तम्भयुतन्तु वा ॥ ४ ॥ योजयेत्कल्पविच्छिल्पी दृढं सुव्यक्तकल्पनम् । देवगन्धर्व भूपालचित्र मासुरकुड्यहम् ॥ ५ ॥ नानाङ्गणसमोपेतं नानापक्तिविराजितम् । मध्यचत्वरयुक्तं वा सविमानतलं क्वचित् ॥ ६ ॥ संयोज्यानि । किञ्चैतादृशविश्रान्तिस्थानाख्यकल्पनस्य प्राथमिकद्वारोपरिभागेषु वा तारम्थलस्य पुरतः किञ्चिद्रस्थले वा सति बहुविभवे भूमिम्बनपूर्वकं त्रिभौमगोपुरं वा पचभौमगोपुरं वा कचित्समभौमगोपुरं वा पूर्वोक्तरीत्या सुव्यक्तकल्पनं स्थापयेन । किञ्च विश्रान्तिस्थलेष्येवं गोपुरनिर्माणस्य फलन्तु पुरद्वारभागकल्पितगोपुरस्येवोह्यमिति भावः ॥ चिकचिल्लावाल्यादिशैलीषु एतादृशविश्रान्तिस्थानद्वारगोपुरसमीपे तत्सहितं वा पृथङ्नानासोपानसंयुक्तनानाङ्गणकल्पनमवश्यं स्थापनीयमिति लक्षणवाक्यार्थः । अस्य विशदार्थस्तु मार्गमध्यभाग संप्राप्तत तत्स्थलनिनोन्नताद्यनुगुणं क्वचित्पञ्चषसोपान कल्पनं क्वचिद्विशत्यधिक सोपानकल्पनं वा स्थापयित्वा तदुपरिभागेषु मध्ये मध्ये चत्वरविभक्ताने काङ्गण कल्पनं स्थापनीयमिति || " -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy