________________
अथ मार्गविश्रान्तिस्थलकरूपनलक्षणकथनं नाम सप्ततितमोऽध्यायः ॥
सर्वत्र मार्गभागेषु कल्पनं भयनोदकम् । सायुधानां भटानाश्च स्थितिधैर्य प्रदायिनी ॥ १ ॥ तस्मात्तत्कल्पयेच्छिल्पी कोशमात्रस्थलादिषु । श्रान्तानां पथिकानाञ्च विश्रान्तिस्थानकैर्युतम् ॥
प्रकल्पनादियुतं प्रकल्पयेदिति सङ्ग्रहेण मार्गलक्षणमार्गशालालक्षणमुक्तं बोध्यम् ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्म वास्तुशास्त्रव्याख्यायां मार्गलक्षणमार्गशालालक्षणकथनात्मक अष्टषष्टितमैकोनसप्ततितमाध्यायौ |
॥ सप्ततितमोऽध्यायः ॥
अथ मार्गविश्रान्तिस्थल निर्माणलक्षणकथनात्मकं सप्ततितमाध्यायं प्रतिजानीते - सर्वत्र मार्गभागेषु इत्यादिना । पूर्वोक्तरीत्या ग्रामान्तरनगरान्तरदेशान्तरगमन योग्य मार्ग महामार्गादिस्थानेषु क्रोशप्रमाणपरिमितेषु मध्ये मध्ये खड्गाद्यायुधधारिपुरपालक मार्गपालकादिस्थान निर्माणन्तु तन्मार्ग द्वारगमनशीलानां