________________
६४७
मूलमोलितले योज्यं मध्यकार्यं पृथतम् ॥ १९ ॥ नोपपादो दारुकल्पे प्रशस्तः परिकीर्तितः । समक्रियं न्यूनहीनं कोणेष्वधिककल्पनम् || २० || समक्रियं वा सर्वत्र यथाशोभं प्रकल्पयेत् । सार्वदेशिक भेदेन शैलीभेदेन वा पुनः ।। २१ ।। शिल्पतक्षणभदन नानाद्रव्यविनिर्मितः । स्तम्भकल्पस्सोपपीठः कथितश्शास्त्रपारगैः || २२ ॥
क्वचिदधः पद्मोपद्मकल्पनयुक्तं कर्णिकागलकुमुदवाटिकारेखिकालताकुसुमादिनानाचित्रकल्पनं वा कार्यम् । इयन शैली प्रायशशिलास्तम्भेष्वेव कल्पनीया । दारुमयेष्विष्टिकामयेषु स्तम्भेषु कल्पनीयेति केचित । शिल्पशास्त्रविदामाशयस्तु शिलास्खेत्र कार्या नेतरत्रेति । तस्मात्पूर्वोक्तरीत्या शिलाभिलईव, दारुभिरिष्टिकाभिर्वा, कल्पितानां वेदिकाङ्गणशालादितत्तत्स्थलानुगुणप्रमाणभाजां स्तम्भानां नानारूपयुतानामेतेषां मौलिभागेषु तिर्यक्प्रस्तरतूलवलभ्याधारपृथुपट्टिकास्थापनाई लक्ष्णीकृत्य तलं तत्र तदचञ्चलं स्थापयित्वा तदुपरि तत्तत्कल्पनानुगुणमाच्छादनं च स्थापयेदित्यर्थः ।।
अपि च कचिद्रूपालप्रासादन्यायशाला महाशाला विशेष • शालाद्युत्तमकल्पनेषु स्थापनीयानां सम्मानां मुखभागेषु कचिङ्गलादि