________________
६४८
पुंवृक्षस्तिलकश्शालः श्रीपर्णश्चन्दनश्शमी । पादयोग्याश्चित्रयोग्याः सारवन्तश्च ये द्रुमाः || २३ ॥ वक्रवणेन हीना ये वायूपप्लववर्जिताः ।
॥
अग्निदाहविहीना ये स्मशानावासवर्जिताः || २४ ॥
देवालयविदुरा ये वल्मीकावा सवर्जिताः । दोषहीना ये तरवस्सारवन्तो महीरुहः || २५ ॥ गवाक्षद्वारडोलासु तिर्यक्पट्टादि केचन ।
स्थानेषु सौवर्णरजतादिपट्टिकां वा कचित्खण्डाख्य फल कान्तरकल्पनान्तरादियोजनं, कचिद्यविद्याधरगान्धर्वोरगादिविविध
चित्रफलका मेलनं वा कारयित्वा युग्मसंख्याकं कुड्य मुखद्वारमुखादिदोषहीनं स्तम्भग्थापनमेव सर्वेषां शुभकरमिति भावः ॥
एतात्रता प्रबन्धेन सङ्क्षेपतो विविधग्रामनगरादिवास्तुस्थानेषु कल्पनीयगृद्दभत्रनप्रासाददेवालय नानाशाला द्यनेककल्पनाई स्तम्भानां स्वरूपलक्षणजात्यादिकं प्रतिपाद्याधुना तादृशस्तम्भाई वृक्षान् निर्दिशति – पुंवृक्षस्तिलक इत्यादिना । ' तिलकरसाल: ' इत्यादिकः पाठः स्पष्टार्थः ॥
पूर्व द्रव्यस प्रणाध्यायप्रकरणे श्रेष्ठवृक्षप्रतिपादनेऽपि अत्र पुनरवश्यमेतादृशतिलकादिसारवृक्षैरेव रम्भादिदोषहीनः स्तम्भस्थापनमित्याशयेन प्रम्थकारस्योक्तिरिति भावो शेयः । धन