________________
६४६
पीठिका बोधिका कुम्भं मौलिभागक्रियावटम् ॥ नानाचित्रसमायुक्तं चित्रपोतकसंयुतम् । कल्पनं कल्पये द्युक्त्या क्षेपयेत्तक्षयेत्क्वचित् ।। १७ ॥ उपपादप्रमाणेन पञ्चषाङ्गुलमानतः । किष्कुहस्तप्रमाणेन चैकहस्तप्रमाणतः ॥ १८ ॥ पृथक् तक्षणपद्मश्च सोपपीठपदक्रियाम् ।
किश्चैतादृशस्तम्भस्थापने कचित्तत्र तत्र कल्पितानेकाङ्गणप्रान्तभागेषु प्रान्तरेखाख्यचित्रकल्पनमथवा चित्रपट्ट चित्रपोतिकादिकं वा यथाभिरुचि विरचय्य, तादृशस्तम्भानां प्रस्तरभागेषु मौलिभागेपु च कचित्पीठिकाख्यकल्पनं वा, बोधिकाकल्पनं वा, कुम्भकल्पनं वा मण्डपशालामहाशालागोपुरालिन्दादिकल्पनानुगुणं तक्षयेदिति भावः । किश्चात्र सर्वविधस्तम्भस्थापने वङ्गाङ्गादिदेशेषु कल्पनीयतत्तच्चित्रादिकल्पनभेदप्रमाणेन वा पाञ्चाल्यादिशैली. प्रमाणेन वा शिल्पाचार्याभीप्सितक्रममानेन वा सहितं चित्रकल्पनादिकं च कचिद्योजनीयम् । तच्च प्रायशः स्तम्भानां मूलभागे उपपीठस्योलतले मध्यभागे मौलिभागे च क्रमान्मध्ये मध्ये चतुरश्रवर्तुलादिस्थलं निर्माय तदन्तरेवं कल्पनीयमिति भावः ॥
किन मध्यस्तम्भकल्पने वा उपस्तम्भादिकल्पनेषु वा किकुप्रमाणादिना विभक्तेषु भागेषु मध्यरेखिकासाहतोपस्तम्भकल्पनं