________________
मूले मध्ये मौलिभागे पट्ट या योजयेत्क्रमात ॥१०॥ पिण्डिताय कराग्रं वा तक्षयेद्वा क्वचित्स्थले । कमलं रेखिकां कर्णनालं मध्यतलं तथा ॥ ११ ॥ व्रतेरुपरि पद्मश्च चित्रखण्डं कपोतिकम् । गजवाजनमुख्यश्च यथामानं प्रकल्पयेत् ॥ १२ ॥ चक्रयाकम्वरूपं वा सरूपमथापि वा । शारिकाशुकरूपं वा नानादेवस्वरूपकम् ।। १३ ॥ चित्रतोरणरूपं वा लताकुसुमरूपकम् । व्यालेभसिममकरगजाश्वादिस्वरूपकम् ॥ १४ ॥ भागेषु पट्टिकाभागेष्वन्यद्यच्च मनोहरम् । कल्पनं तत्प्रकर्तव्यं नानाटङ्कक्रियावटैः ॥ १५ ॥ प्रान्तरेखासमायुक्तं चित्रपट्टयुतं क्वचित् ।
चाङ्गेषु कमलं रेखिकां मध्यनालं कचिच्छैल्यन्तरेषु एकहस्तोन्नतिकप्रमाणं वा तन्न्यूनं कचित्तदधिकप्रमाणं वा कचिन्नानाङ्गणविभजनं कारयित्वा, तादृशाङ्गणतलेषु चक्रवाकचित्रं वा हंसीहंसशुकशारिकाचूनलताकुसुमादिचित्रं वा तत्रैव भागान्तरस्थिताङ्गणतलेषु व्यालरूपं वा वारणरूपमथवाऽश्वरूपं कचिन्मीनकुटुम्बरूपं, कचित्तोरणरूपं, कचिन्मनोहरचित्रपट्टिकारूपं नानाटङ्कादिक्षेपणतक्षणवर्धनषशात्करणीयमिति तत्कल्पनक्रमो बोध्यः ।।