________________
६४४
विभजे मानविच्छिल्पी योजयेत्स्थलयोग्यकम् | द्विभागं वा विभागं वा चतुर्भागमथापि वा ॥ ८ ॥ पञ्चभागञ्च षड्भागं सप्तभागं क्वचित्स्थले । अष्टभागक्रमात्सर्वमुत्सेधं सूत्रमानिते ॥ ९ ॥
जन्मनिक्षेपपद्मादिकल्पनं कल्पयेत्क्रमात |
किचात प्रतिपादितस्तम्भेपूपस्तम्भकल्पने कोऽपि नियमो Sवधार्य: । यथा वैतादृशोपस्तम्भकल्पनं तावत्खातस्तम्भेषु न सर्वथा योज्यम् । परन्तू पपीठादिसहितस्तम्भकल्पनेष्वेव कार्यम | तत्रापि कोऽपि शिल्पकार्यक्रमो यथा उपपीठ कल्पनापर किल स्तम्भस्थापनम् । तस्मात्तादृशोपपीठमौलिभाग सहितमथवा तादृशस्तम्भाधारनहितं योजनीयमिति सर्वथा न पृथक्कार्यम् ॥
--
किचोपपीठस्य नात्युच्छ्रायभागेऽपि योज्यम् । किन्तु यथात्रा मागधादिसर्वविधशैलीषु शोभा जायते तथा कार्येति भात्रः । इयमेत्र कल्पनरचना मनोहरा शिल्पसौष्ठव विद्भिरप्यङ्गीकृता । किञ्च स्तम्भमध्यभागादिषूपस्तम्भस्थापनशैलीं नानुमन्यन्ते शिल्पिनो वास्तुशास्त्रकाराश्चेति मतिः ।।
तस्मादेतादृशोपस्तम्भभागं
मध्यस्तम्भभागच द्विभागमथवा कचित्रिभागं चतुर्भागादिभागदशकावधिकं यथाभिरुचि स्तम्भानामन्नत्यानुगुणं वा वाञ्छानुगुणं वा विभज्य तत्र