________________
६२२
सिन्दुरमेलनं वापि शिलाचूर्णादिपिष्टिका । वज्रबन्धोऽथवा कार्यस्सेतुदुर्गादिषु स्थिरः ॥ ८॥ दारुमेलनकं वापि लोहकीलस्य मेलनम् । द्वाराणामपि कुड्यानां गवाक्षाणाश्च मेलने ॥ ९॥ स्तम्भमेलनके वापि तूलदार्वादिमेलने । सोपानमेलनेष्वेवमधिष्ठानादिमेलने ॥ १०॥
किचात्र सन्धिबन्धनकमणि तटाकवापीकूपपरिखासेतुसुषिरादिकल्पनेषु एतादृशसुधेष्टिकादिभिभित्तिकल्पने तादृशेष्टकामध्यतलेविष्टिकानां मध्येऽतिदायर्योत्पादनाथं सलिलवीची. प्रमुखैरक्षोभणार्थं च तासामिटिकानां मध्यभागे सिन्दूरसंयोजन शिलाचूर्णसंयोजनञ्च कचित्संयोजयित्वा, एतेषां द्रव्याणामप्यतिदायसंपादनाय कूटव नबन्धं च निर्मापयेदिति शास्त्रकारोपदेशः । व नबन्धो नाम पूर्वोक्तसिन्दूरशिलाचूर्णादिसम्मेलनस्थले टङ्कादिना शश्वत्ताडनदृढीकरणश्लक्ष्णीकरणादिरिति भावः ।।
किश्च कचित्सेतुमार्गपरिखामार्गगोपुरतलभागादिषु मध्यभागे सारदारुफलकामेलनं वा कार्यमिति । किश्चात्र सन्धिबन्धकमणि पूर्वप्रतिपादितरीत्या द्वारकुड्यगवाक्षस्तम्भतूलप्रस्तराधिष्ठानसोपानेषु दारुखण्डफलकादिभिः कल्पितेषु कचित् फलकादीनां कील संयोजनं, कचित्कीलपट्टिकासंयोजनश्च, कचित्