________________
६२३
सन्धिक्रिया प्रकर्तव्या युक्त्या दायय शिल्पिभिः प्राकाराणां गोपुराणां दुर्गाणामपि कल्पने ।। ११ ।। परिकल्पनेष्वेवं वापीकूपादिकल्पने । भूमिका कल्पनेष्वेवं पट्टिकादिप्रकल्पने ।। १२ ।। सन्धिक्रिया कल्पयोगात्कालयोगात्क्वचित्स्थिरा । करनिम्नं भूमिनिम्नं कुंभनिनं क्वचिन्मतम् ।। १३ ।।
खङ्गनिम्नं महानिम्नं निम्नं नानाविधं क्वचित् । कल्पनाई प्रकर्तव्यं शैलदार्विष्टिकास्वपि ॥ १४ ॥
सौवर्णराजतताम्रपित्तलादिलोहपट्टिका
सिह्मासनपीठिकादिषु संयोजन करणीयमिति च क्रमोऽवश्यं कार्यज्ञैर्ज्ञेय इति
भावः ॥
किञ्च सोपानादिकल्पने शिलामये, शिलामध्यभागे, सिन्दूरसुधालेपनं, दारुमये सोपानादिकल्पने तन्मध्यभागेऽय:कोलकर पट्टिकादियोजनमित्यादि क्रमतो नानाविधकल्पनाई नानाविधद्रव्य सम्मेलनं यथाप्रमाणं यथाबलं करणीयमिति लक्षणवाक्यार्थः ॥
तथाकल्पने कविनिर्माणेषु करनिम्नाख्य सन्धियन्धक्रमः, कचित्कल्पनेषु कुम्भनिम्नाख्य सन्धिबन्धक्रमः कचिन्महानिनाख्य सन्धिबन्धक्रम इत्याद्यनेकरूपं सम्धिबन्धनिर्माणसंयोजन
"
"