________________
६२१
अङ्गुलादशकं वापि नवकन्त्वष्टकन्तु वा । स्थलक्रमात्कीलमानं योजनीयं विचक्षणैः ॥ ५ ॥
नातिरन्धं नातिहीनं न च व्यक्तिकरं मतम् । दारुकार्येषु सर्वेषु क्रियाशैली प्रकीर्तिता ॥ ६ ॥
व्यत्यासक्रमतो योज्या दृष्टिकादिप्रकल्पने । सुधालेपो मध्यभागे दायय परिकल्पते ॥ ७ ॥
इत्येवं स्थपतितक्षक प्रमुखैराचार्योपदेशः । स्वयं च युक्तया तत्तत्कल्पनानुगुणं लक्षिणतघनशिला पटलैः शिलान्तरसंयोजनं कार्यमित्यर्थः ॥
किन गवाक्षकपाटद्वारडोलादिदा रुक्रिया जालेष्वलदशकं नवाष्टक सप्तकादि यथास्थलप्रमाणं रन्ध्रादिकं क्वचिन्निनतक्षणादिकं विरचय्य तदनुगुणं नातिरन्ध्रस्थलं नातिहीनपरिमितं व्यक्तिरहितं कचित्कीलसंयोजनं कार्यम् । सुतप्तषष्टिकादिभिः कुड्यादिनिर्माणेषु कम्पपद्मतक्षणरीत्या कचिन्मुखभागे वर्धनं, क्वचिदर्धनिम्नतरं, पुनरपि तत्रैव क्वचिन्मुखभागे वर्धनमित्येवं रूपव्यत्यासक्रमेणेष्टिकास्थापनं विरचय्य मध्ये मध्ये सगुडत्वक्सारसलिलमिश्रितसुधालेपनं करणीयम । अयन क्रमस्सर्वविधेष्ठिकानिर्माणेषु सन्धिबन्धनकार्यादिषु नितरां दादप्रद इति आवः ॥ ७ ॥
,