________________
शिलैव योज्या शैलेषु चेष्टिकास्विष्टिका सुधा । दारुकार्येषु लोहादिः दृढसन्धाय निश्चितः ॥ ३ ॥ तस्मायुक्त्या यथामानं यथायोगं प्रकल्पयेत् । टङ्कादिश्लक्षिणते योज्यमन्यथा विफलं भवेत् ॥ ४ ॥
कार्यसमये निश्रित्य तदनुगुणं मात्वा यथासौकर्यक्रम सन्धिक्रियां प्रकल्पयेयुरिति लक्षणवाक्यार्थः । अत्रोक्तमेतविविधमानमेव तत्तत्कल्पनान्तरोचितमानान्तराणामप्युपलक्षणं भवति ।।
__ अत्र सर्वविधसन्धि कल्पनानां द्रव्ययोजनादिक्रममाह - शिलैव योज्येत्यादिना । शिलाभिः कल्पित सचित्र स्तम्भप्रस्तरतूलादिविविधशिलानिर्माणेषु भागान्तपरिकल्पनार्थं प्रायशश्शिलापटल्येय संयोजनीया । एवमिष्टिकानिर्मितभित्त्यादिकल्पनेषु मन्धिकर्मणीष्टिका सुधादिरेव योज्या । दारुफलकाजालविरचितद्वारकवाटगवाक्षडोलाशिबिकापर्यादिषु लोहमयायःकीलसंयोजनमेव दृढाय भवति । इ प्रायिकलक्षणम् । एवङ्कल्पनमेव विविधेषु कल्पनेषु तत्तका स्वैर्य दादा दये भवतीति लोकविदितमेवेत्यर्थः ।। ____ अस्य विशदार्थस्तु दिलामयस्तम्भमौलिभागेषु किंचिन्निनं टङ्कादिना कृत्वा तत्रोपरिभागे प्रस्तरशिलाखण्डकुमुदादिकं प्रवेशयित्वा दढं तदुपरि निरन्तराच्छादनशिलावली प्रकल्पयेत् ।