________________
तस्मात्तद्योजयेयुक्त्या स्थपत्याज्ञासुवर्तिनः । ऊर्ध्वमानमधोमानं पार्श्वमानं प्रकल्पयेत् ॥२॥
एवमुक्तरीत्या सर्वविधनिर्माणकार्येष्वपि तत्र तत्र बहुभागेषु घनसन्धिबन्धनिर्माणमेव दादिये भवति । एतादृशघनसन्धिबन्धक्रियां विना क्लमं सर्वविध कल्पनजालं व्यर्थमेव स्यात , न प्राणिनां सुखकरश्चेत्यादिविषयस्तु स्पष्ट एव लोके । तस्मात्स्थपतितक्षकलोहकारक्रकशकारादिभिस्वस्वकार्येषु तत्तत्कल्पनद्रव्याह सन्धिबन्धनं योजनीयमित्युपदेशः ।।
किञ्च मकरकुण्डलनासामौक्तिकाङ्गदाङ्गुलीयकरवलयनूपुरमेखलादीनां सुवर्णकारकल्पनीयानां सन्धिबन्धरचनाक्रमस्तु शिल्पकलादीपिकायां विस्तरशः प्रतिपादितं; तत्रैव ज्ञेयम् । अत्र तु केवलं तक्षकलाहकारक्रकशकारकल्पनीयगृहनिर्माणतदङ्गभूतपीठशिबिकाडोलापर्यङ्किकादीनामेव सन्धिक्रियाक्रमः प्रतिपाद्यत इति भावः ॥
सन्धियोजनं नाम तत्तत्कल्पनानुगुणं विरचितस्तम्भादीनां मौलिभागेषु प्रस्तरदादिस्थापनमिति नानाविधकार्यानुकूलं विरचितानां खण्डानामेकीकरणमित्यर्थः । किञ्चैतादृशसन्धिक्रियाकल्पनाहं कचिदूर्ध्वमानप्रसारणं भित्तिषु, कचिदधोमानप्रसारणं स्तम्भादिषु,कचिसोपानकार्येषु पार्श्वमानप्रसारणं च तस्मिंस्तस्मिन्नेव