________________
अथ सन्धिबन्धकथनं नाम
एकषष्टितमोऽध्यायः ॥ सन्धिबन्धस्तु सर्वत्र कल्पदाक्य कल्पते । तद्विना विफलं कर्म सुखश्च न भवेद्बुवम् ॥१॥
प्रमाण कल्पनक्रमलक्षणादिरीत्या ग्रामनगरादिकल्पिततत्तद्गृहभवनादिन्थलानुगुणं चत्वरकल्पनमवश्यं कार्यमिति पिण्डितार्थो ज्ञेयः। तस्मात्स्थपतितक्षकक्रकशकारादयस्तत्र तत्र कल्पितगृहादिकल्पनानुगुणं प्रमाणादिकं प्रथमत एव स्वयमूह्य यथाविभवं चत्वरं स्थापयेयुरिति लक्षणवाक्यार्थः। स्पष्टमन्यत् ।।
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां चत्वरलक्षणकथनं नाम पष्टितमोऽध्यायः॥
॥ एकपटितमोऽध्यायः॥ एतावता प्रबन्धेन प्रतिपादितानां नानारूपाणां शिलालोहदाविष्टिकादिकल्पितगृहभवनमण्ट पस्तम्भगोपुरकवाटगवाक्षपीठ शिबिकादीनां सन्धिबन्धनलक्षणकथनात्मकमेकषष्टितमाध्यायमारभते - सन्धिबन्धस्त्वित्यादिना ।।