________________
६१७
मध्य भागस्थलोपेतं तिर्यग्भागस्थलान्वितम् ॥ १६ ॥ क्षुद्रचत्वरनिर्माणं भौमयोग्यं प्रकल्पयेत् । द्वारकल्पस्तम्भकल्पभित्तिकल्पादिहीनकम् ॥ १७ ॥ कूपकल्पविहीनश्च समसूत्रप्रसारकम् । न्यू नातिरेकहीनश्च कल्पयेत्स्थलमानवित् ॥ १८ ॥ दशभागादष्टभाग पड्भागश्चतुरंशकम् । लतापुष्पादिचित्राढ्यं श्लक्ष्णभूतलभासुरम् ।। १९ ॥ स्तम्भान्धारिकयुक्तं वा पटल्यादियुतं क्वचित् । स्थापयत्कल्पनान्ते वा चत्वरस्य प्रकल्पनम् ।। २० ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
चत्वरलक्षणकथनं नाम पष्टितमोऽध्यायः ॥
मिति चोपदेशः । अपि चात्र चत्वरस्थलेऽत्यगाधे एकत्र बोभयपक्षयोश्चतुष्यपि वा भागेप्वङ्गणतलाञ्चस्वरावरोहणार्थ त्रिचतुः. पश्चषसोपान कल्पनमपि स्थापनीयम् । किञ्चैतादृशसोपानेषु तत्समीपस्थलेषु चत्वरमध्यनलेषु नानालताकुसुमपत्रादिरचना कार्या । किम्च के पुचिद्देशेषु अत्र चत्वरकल्पने चत्वरमध्यतले सावरणा वृहती वेदिका रा, निरावरणा वृहती वेदिका बा, कलशशिखरादिसहिता था स्थापनीयेति भावः । तथा चैतादृश
s. S. 78