________________
६११
प्रयोज्य स्थापयेच्छपी कल्पनाद्देमाक्रियम् । एकं द्विकं त्रिकं वापि नानासंख्यं क्वचित्स्थले ॥ ५ ॥
द्वेति चेत्तदाह समसूत्रमिति । गृहभवनप्रासादादिकल्पनस्य यदि वैशाल्याधिक्यप्रमाणं कृतं तदत्रापि चत्वरे वैशाल्याधिक्यप्रमाणं युक्तम । यदि तत्र कल्पने देयधिक्यमत्रापि तदिति तदर्थो बोध्यः । इदं प्रायिकलक्षणमिति भावः । मतान्तररीत्याऽस्य चत्वरस्थानस्य लक्षणमाह कल्पसूत्रमथापि वेति । अस्य विशदार्थो यथा -- तत्र तत्र गृहादिकल्पनेषु यजमानविभवादिना वा ऐच्छिकेन वा स्थललाभादिना वा कचिन्नगरादिप कल्पितभवनान्तर्गतनानाविधक्षुद्र गृहनिर्माणप्रमाणानुगुण्येन चत्रकरणं करणीयमित्यर्थः फलति । तथा चैकदण्डादिदशदण्डावधिकप्रमाणयुतं चत्वरस्थापनं सुखप्रदम् ॥
Ge
-
वा
कचिद्रामगृहादिषु भूपालप्रासादादिप्रदेशेषु वा दशदण्डाधिकवैशाल्यशालिन्याश्वत्वरभाग भूमेर्यदि लाभस्तदा 你 कर्तव्यमिति चेत्तद्विवृणोति - एकं द्विकं त्रिकं वापीति । तादृशस्थल शाल्यानुगुणं प्रथमावरणकल्पनं, कल्याणशालादिकल्पनं विधाय ततः पश्चाद्भागे क्षुद्रगृहादिनिर्माण कारयित्वा पुनरपि द्वितीयचत्वरस्थापनं ततः पश्चाद्भागे तृतीयचत्वरस्थापनमित्येवं क्रमतश्चत्वरकल्पनं स्थापनीयमिति भावः ॥
"