________________
६१०
वास्तुपूरुषनेत्रं तदाहुश्शिल्पविशारदाः। तस्मात्तत्कल्पयच्छिल्पी यथामानं यथास्थलम् ॥३॥ वार्थलाख्यं केवलं वा कल्पनं तद्विधा मतम् । समसूत्रं पार्श्वसूत्रं कल्पसूत्रमथापि वा ॥ ४ ॥
शालादिविविधशालाकल्पनेषु अन्येष्वपि निर्माणेषु, चत्वरस्थापनमवश्यं कार्यमिति शास्त्रकारोपदेशः ॥ २ ॥
किञ्चैतादृशचत्वरस्थापनेन किंवा प्रयोजनमिति चेत , तत्फलं ध्वनिना प्रतिपादयति - वास्तुपूरुषनेत्रं तदिति । अस्य विशदार्थो यथा- तच्चत्वरस्थलं वास्तुपुरुषस्य नेवं भवति । यथा वा पुरुषस्य लोके नयनेन सर्वविधश्रेयःप्राप्तिः, तथा निर्माणस्य चत्वरस्थापनेन फलप्राप्तिरिति ध्वन्यों ज्ञेयः। किञ्च वास्तु भूमौ शयालोस्तुिनाथम्य नेत्र स्थानभाग एव चत्वरस्थापनमिदं कार्यमित्यप्यों ध्वन्यते । तस्मान्मानवगेहादिषु विशेषतो मानज्ञः शिल्पी चत्वरकल्पनं यथास्थलं कल्पनानुकूलं स्थापयेदिति क्रमः । पिच तच चत्वरस्थापनं विविधं भवति । यथा - वार्थलाख्यं, केवलमिति । वार्थलन्तु सूर्यात पचन्द्रिकावर्षसलिलादिपतनस्थानम् । केवलन्तु चत्वरस्थानं पूर्वोक्तरीत्या तत्र तत्र नवराकल्पनचतुरश्रमण्टपादिस्थलमिति तद्विवेकः ।।
अपि च तादृशचस्वरकल्पनस्य वैशाल्यादिप्रमाणं किय.