SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ भोज्यशालादिषु तथा शयनादिस्थलेषु च । कल्पनान्ताभागेषु प्रकल्प्या पोतिका क्रिया ॥९॥ भित्यन्ते पादकान्ते च कल्पनान्ते च सुस्थले । सुधारूपी दारुमयी क्वचित्कार्या विशेषतः ॥ १० ॥ सम्मुखं समसंख्यञ्च पोतिकाकल्पनं वरम् । योजनीयं वियोक्तव्यं जङ्गमस्थावरक्रमाद् ॥ ११ ॥ शृङ्खलावलितं वापि क्वचिन्माना मुखान्विता । स्थापयेदिति क्रमः । तत्रापि साधिष्ठानं कचित्मोपानयुतं च तादृशदीपबेरकल्पनं वरमिति भावः । कुन: ? औन्नत्यकल्पनादिना दीपप्रभास्फूर्तये । कितादृशलोहमयदीपपात्रनिर्माणादिशक्त्यभावे लोहमयतैलधारशरावकसहितं सुधामयं दीपपात्रं वा कचिञ्चन्दनादिसारदारुकृतदीपस्तम्भं वा क्षुद्रप्रमाणं प्रकल्प्य तत्र स्थापयेत् । तवाप्यधिष्ठानोपपीठकल्पनं घनमध्यदण्डोपेतं जङ्गमं स्थावरं वा कल्पनं सुखादय इति मतिः ।। किम्बात्र लोके विविधकल्पनरूपदीपपात्रनिर्माणे अलिन्दभागेषु अङ्गणादिस्थलेषु शालास्वप्युभयोरपि पक्षयोमिथरसम्मुखस्थितिभाग्वा, कचिदेकभागं विनाऽन्यत्र स्थले स्थितिमद्वा दीपकल्पनं स्थापनीयम् । जङ्गमदीपविषये तु ऐच्छिकमिति भावः ॥ किश्च कचिद्देवागारद्वारभित्त्युभयपार्श्वेषु शृङ्खलासंयोजितं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy