________________
६०५
नवताला क्वचिल्लाहशिलादिघनयोजिता ॥३॥ गान्धर्वी किन्नरी विद्याधरी वा पक्षिरूपिका । नानालङ्कारमंयुक्ता दीपपालकधारिणी ॥ ४ ॥ महामना वा साधारा देवभूपालकल्पने । मानज्ञेन स्थलज्ञेन स्थापितव्या शुभस्थले ॥ ५ ॥ तयुग्मकं वा पुरता युग्मं विपरिवृत्तकम् । शालासु स्तम्भपाली मोपानेऽलिन्दशालके ॥ ६ ॥ कूटे च नवरङ्गे च भौमकल्पनपालिषु । गोपुरद्वारभागेषु मण्डपास्थानभूमिषु ॥ ७ ॥ प्राकारकुड्यभागेषु तटाकादिस्थलेष्वपि । द्वारपार्श्वे चत्वरान्ते देवगेहे विशेषतः ॥ ८ ॥
नानारूपेषु दीपेषु नवतालपश्चतालादिप्रमाणयुतं गन्धादियुवतिविम्बं लोहादिभिः निर्माय, तत्करतलपुटे तैलधारकनामकशरावस्थापनं विरचय्य, तत्र दीपारोपणमेव सर्व देवप्रीतिकरमिति प्राचां शास्त्रकाराणामाशयोऽवधायः ।।
किश्च तादृशदीपधारिणीयुवतिबेरनिर्माणक्रमो यथा - पुंशिलाभिरथवा स्त्रीशिलाभिस्सल्लोहखण्डैर्वा गान्धर्वीबिम्बरूपं वा किन्नरीबिम्बरूपं वा यक्षिणीबिम्बरूपं वा, विद्याधरीविम्बरूपं वा, हंसिकामयूरिकाशुकाद्युत्तमपक्षिबिम्बरूपं वा निर्माय तत्र तत्र